गुरुर्बोधस्वरूपश्च, गुरुर्ज्ञानप्रदीपकः।
गुरुर्मोहतमोभेत्ता, तस्मै श्रीगुरवे नमः॥१॥
गुरुः शान्तिस्वरूपश्च, गुरुर्मङ्गलदायकः।
गुरुः सत्यपथप्रदर्शी, तस्मै श्रीगुरवे नमः॥२॥
गुरुः संस्कारदाता च, गुरुर्बुद्धिप्रबोधकः।
गुरुः शिष्यहृदि ज्योतिः, तस्मै श्रीगुरवे नमः॥३॥
गुरुः कर्मपथप्रदर्शी, गुरुर्धर्मस्य रक्षकः।
गुरुर्जीवनसन्देशः, तस्मै श्रीगुरवे नमः॥४॥
गुरोः कृपाप्रसादेन, ब्रह्मज्ञानं प्रकाशते।
अहङ्कारस्तिरो याति, तस्मै श्रीगुरवे नमः॥५॥
गुरुर्न केवलं व्यक्तिः, गुरुश्चैतन्यमव्ययम्।
अज्ञानध्वान्तहन्तारं, तस्मै श्रीगुरवे नमः॥६॥
गुरुर्माता गुरुस्त्राता, गुरुर्बन्धुर्गुरुर्गति।
गुरुः संसारसिन्धोश्च, सेतुरित्येव नमोऽस्तु ते॥७॥
त्वमेव ज्ञानदीपश्च, त्वमेव परमं तपः।
त्वमेव परमं तत्त्वं, श्रीगुरो तुभ्यं नमो नमः॥८॥
ब्रह्मा विष्णुश्च रुद्रश्च, त्रयोऽप्येकत्वमाश्रिताः।
यस्य पादाम्बुजे नित्यं, तस्मै श्रीगुरवे नमः॥९॥
हृदये यस्य दीपोऽयं, प्रज्वलत्यात्मबोधकः।
तमेकं करुणासिन्धुं, वन्दे श्रीगुरुमव्ययम्॥१०॥
अन्तर्बाह्यप्रकाशं तं, तमोभेदकरं गुरुम्।
जीवने ब्रह्मदातारं, वन्दे श्रीगुरुमीश्वरम्॥११॥
शिष्यस्य हृदि सुप्तं यद्, ज्ञानबीजं सनातनम्।
करुणामृतवर्षेण, पोषयन्तं गुरुं भजे॥१२॥
नमो ज्ञानस्वरूपाय, नमः करुणमूर्तये।
नमो धर्मप्रदीपाय, नमः श्रीगुरुमूर्तये॥१३॥
यस्य दृष्ट्या भवेद् दृष्टिः, यस्य वाचा भवेद् श्रुतिः।
यस्य कृपया ब्रह्मज्ञानं, तस्मै श्रीगुरवे नमः॥१४॥
गुरुपादाम्बुजं ध्यायन्, शिष्यः शुद्धिमवाप्नुयात्।
गुरुमन्त्रप्रभावेण, आत्मज्योतिः प्रकाशते॥१५॥
गुरोश्चरणरेणुभ्यः, पावितं मे मनो भवेत्।
गुरुकृपैकनौकेन, संसाराब्धिं तरेन्नरः॥१६॥
नाहं कर्ता न भोक्ता च, त्वत्कृपैव ममाश्रयः।
आत्मतत्त्वावबोधाय, श्रीगुरो तुभ्यं नमः॥१७॥
त्वमेव शरणं नाथ, त्वमेव परमं पदम्।
त्वमेव मम सर्वस्वं, गुरुदेव नमोऽस्तु ते॥१८॥
ज्ञानं त्वं च विवेकश्च, प्रेम त्वं च दया त्वमे।
मुक्तिमार्गप्रकाशाय, गुरुदेव नमोऽस्तु ते॥१९॥
ब्रह्मविद्याप्रदातारं, भवबन्धविमोचकम्।
सच्चिदानन्दमद्वैतं, श्रीगुरुं प्रणमाम्यहम्॥२०॥
गुरुर्ब्रह्म परं तत्त्वं, गुरुर्जीवस्य जीवनम्।
गुरुरेव परं ज्योतिः, गुरुरेव परं धनम्॥२१॥
तस्मै श्रीगुरवे नित्यं, भक्त्या हृद्गतचेतसा।
कोटिशः प्रणमाम्यद्य, ज्ञानानन्दस्वरूपिणे॥२२॥
सनातन मुकुंद
- हम उम्मीद करते हैं कि यह पाठक की स्वरचित रचना है। अपनी रचना भेजने के लिए यहां क्लिक करें।
कमेंट
कमेंट X