वक्रतुण्डं महाकायं सूर्यकोटिसमप्रभम्।
निर्विघ्नानि कुरु मे देव कार्याणि गणनायक॥१॥
गजाननं गणाध्यक्षं भक्तानामभयप्रदम्।
एकदन्तं महावीरं वन्दे सिद्धिविनायकम्॥२॥
लम्बोदरं विशालाक्षं मोदकप्रियमेव च।
पाशाङ्कुशधरं शान्तं भजेऽहं गणनायकम्॥३॥
बुद्धिदं सिद्धिदं नित्यं मङ्गलानां च मङ्गलम्।
शरणागतदीनानां कल्पवृक्षं नमाम्यहम्॥४॥
विघ्नान् हरन्तं भक्तानां सन्तापानां विनाशनम्।
दुःखदारिद्र्यहर्तारं भजामि गणनायकम्॥५॥
प्रणवरूपं त्वां ध्यायन्ति मुनयो बुधाः।
मूलाधारस्थितं देवं नमामि गणनायकम्॥६॥
ब्रह्मरूपं जगन्नाथं शिवपुत्रं दयानिधिम्।
उमासुतं महाप्राज्ञं वन्देऽहं वरदायकम्॥७॥
इदं स्तोत्राष्टकं पुण्यं यः पठेत् श्रद्धयान्वितः।
तस्य विघ्नाः प्रणश्यन्ति सिद्धिं यान्ति मनोरथाः॥८॥
- सनातन मुकुंद
- हम उम्मीद करते हैं कि यह पाठक की स्वरचित रचना है। अपनी रचना भेजने के लिए यहां क्लिक करें।
कमेंट
कमेंट X